Parimal Digital
GetStarted
Login
  • Login
    Enable Location Services
    • Website
    • परिमल
    • परिमल स्तोत्र
    • श्रीमदभगवद्गीता
    • पूजनीय गुरुजन
    • Others

    Others

      Parimal Digital
      Parimal Digital
      Login
      • Login
      • Website
      • परिमल
      • परिमल स्तोत्र
      • श्रीमदभगवद्गीता
      • पूजनीय गुरुजन
      • Others
      GetStarted
      अथाष्टादशोऽध्यायः

      अथाष्टादशोऽध्यायः

      1. Home
      2. श्रीमदभगवद्गीता
      3. संस्कृत गीता
      4. अथाष्टादशोऽध्यायः

      अथाष्टादशोऽध्यायः

      **अर्जुन उवाच:**  

      संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।  

      त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ १८-१ ॥  

      **श्रीभगवानुवाच:**  

      काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ।  

      सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ १८-२ ॥  

      त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।  

      यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ १८-३ ॥  

      निश्चयं श‍ृणु मे तत्र त्यागे भरतसत्तम ।  

      त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥ १८-४ ॥  

      यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।  

      यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ १८-५ ॥  

      एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।  

      कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥ १८-६ ॥  

      नियतस्य तु संन्यासः कर्मणो नोपपद्यते ।  

      मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ १८-७ ॥  

      दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् ।  

      स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ १८-८ ॥  

      कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन ।  

      सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥ १८-९ ॥  

      न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते ।  

      त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥ १८-१० ॥  

      न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।  

      यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ १८-११ ॥  

      अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।  

      भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥ १८-१२ ॥  

      पञ्चैतानि महाबाहो कारणानि निबोध मे ।  

      साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ १८-१३ ॥  

      अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।  

      विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥ १८-१४ ॥  

      शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः ।  

      न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ १८-१५ ॥  

      तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।  

      पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ ১৮-१६ ॥  

      यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते ।  

      हत्वाऽपि स इमाँल्लोकान्न हन्ति न निबध्यते ॥ १८-१७ ॥  

      ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।  

      करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ॥ १८-१८ ॥  

      ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ।  

      प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ॥ १८-१९ ॥  

      सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।  

      अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥ १८-२० ॥  

      पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् ।  

      वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥ १८-२१ ॥  

      यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् ।  

      अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ १८-२२ ॥  

      नियतं सङ्गरहितमरागद्वेषतः कृतम् ।  

      अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥ १८-२३ ॥  

      यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ।  

      क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ १८-२४ ॥  

      अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् ।  

      मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ १८-२५ ॥  

      मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ।  

      सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥ १८-२६ ॥  

      रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ।  

      हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ १८-२७ ॥  

      अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः ।  

      विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ १८-२८ ॥  

      बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं श‍ृणु ।  

      प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥ १८-२९ ॥  

      प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।  

      बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ १८-३० ॥  

      यया धर्ममधर्मं च कार्यं चाकार्यमेव च ।  

      अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥ १८-३१ ॥  

      अधर्मं धर्ममिति या मन्यते तमसावृता ।  

      सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥ १८-३२ ॥  

      धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ।  

      योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ १८-३३ ॥  

      यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन ।  

      प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ १८-३४ ॥  

      यया स्वप्नं भयं शोकं विषादं मदमेव च ।  

      न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥ १८-३५ ॥  

      सुखं त्विदानीं त्रिविधं श‍ृणु मे भरतर्षभ ।  

      अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥ १८-३६ ॥  

      यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ।  

      तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥ १८-३७ ॥  

      विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् ।  

      परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥ १८-३८ ॥  

      यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ।  

      निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ १८-३९ ॥  

      न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।  

      सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥ १८-४० ॥  

      ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप ।  

      कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ १८-४१ ॥  

      शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।  

      ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥ १८-४२ ॥  

      शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।  

      दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ १८-४३ ॥  

      कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ।  

      परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ १८-४४ ॥  

      स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।  

      स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥ १८-४५ ॥  

      यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।  

      स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥ १८-४६ ॥  

      श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।  

      स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ १८-४७ ॥  

      सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ।  

      सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥ १८-४८ ॥  

      असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः ।  

      नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥ १८-४९ ॥  

      सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे ।  

      समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ १८-५० ॥  

      बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च ।  

      शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ १८-५१ ॥  

      विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ।  

      ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥ १८-५२ ॥  

      अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ।  

      विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ १८-५३ ॥  

      ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।  

      समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ १८-५४ ॥  

      भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः ।  

      ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ १८-५५ ॥  

      सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ।  

      मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ १८-५६ ॥  

      चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः ।  

      बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥ १८-५७ ॥  

      मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ।  

      अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि ॥ १८-५८ ॥  

      यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे ।  

      मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥ १८-५९ ॥  

      स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।  

      कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥ १८-६० ॥  

      ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।  

      भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ १८-६१ ॥  

      तमेव शरणं गच्छ सर्वभावेन भारत ।  

      तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ १८-६२ ॥  

      इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया ।  

      विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ १८-६३ ॥  

      सर्वगुह्यतमं भूयः श‍ृणु मे परमं वचः ।  

      इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ १८-६४ ॥  

      मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।  

      मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ १८-६५ ॥  

      सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।  

      अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ १८-६६ ॥  

      इदं ते नातपस्काय नाभक्ताय कदाचन ।  

      न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ १८-६७ ॥  

      य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।  

      भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ १८-६८ ॥  

      न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।  

      भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ १८-६९ ॥  

      अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।  

      ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ १८-७० ॥  

      श्रद्धावाननसूयश्च श‍ृणुयादपि यो नरः ।  

      सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥ १८-७१ ॥  

      कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा ।  

      कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय ॥ १८-७२ ॥  

      **अर्जुन उवाच:**  

      नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत ।  

      स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥ १८-७३ ॥  

      **सञ्जय उवाच:**  

      इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ।  

      संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥ १८-७४ ॥  

      व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् ।  

      योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥ १८-७५ ॥  

      राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् ।  

      केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥ १८-७६ ॥  

      तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः ।  

      विस्मयो मे महान् राजन्हृष्यामि च पुनः पुनः ॥ १८-७७ ॥  

      यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।  

      तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ १८-७८ ॥  

      ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु  

      ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे  

      मोक्षसंन्यासयोगो नाम अष्टादशोऽध्यायः ॥ १८ ॥

      Parimal Digital
      Vishal Shri Geeta Bhawan
      Sector 52, Chandigarh
      160036
      Chandigarh, India
      Working Hours
      Monday-Friday
      10am-6pm
      Click to Follow
      Contact Us
      [email protected]+91-8146148002+91-9877426467
      Copyright © 2024. All Rights Reserved.
      Designed By: Keshav Mahajan