Parimal Digital
GetStarted
Login
  • Login
    Enable Location Services
    • Website
    • परिमल
    • परिमल स्तोत्र
    • श्रीमदभगवद्गीता
    • पूजनीय गुरुजन
    • Others

    Others

      Parimal Digital
      Parimal Digital
      Login
      • Login
      • Website
      • परिमल
      • परिमल स्तोत्र
      • श्रीमदभगवद्गीता
      • पूजनीय गुरुजन
      • Others
      GetStarted
      अथ सप्तदशोऽध्यायः

      अथ सप्तदशोऽध्यायः

      1. Home
      2. श्रीमदभगवद्गीता
      3. संस्कृत गीता
      4. अथ सप्तदशोऽध्यायः

      अथ सप्तदशोऽध्यायः

      **अर्जुन उवाच:**  

      ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः ।  

      तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥ १७-१ ॥  

      **श्रीभगवानुवाच:**  

      त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।  

      सात्त्विकी राजसी चैव तामसी चेति तां श‍ृणु ॥ १७-२ ॥  

      सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।  

      श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥ १७-३ ॥  

      यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः ।  

      प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥ १७-४ ॥  

      अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।  

      दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥ १७-५ ॥  

      कर्षयन्तः शरीरस्थं भूतग्राममचेतसः ।  

      मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥ १७-६ ॥  

      आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ।  

      यज्ञस्तपस्तथा दानं तेषां भेदमिमं श‍ृणु ॥ १७-७ ॥  

      आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।  

      रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥ १७-८ ॥  

      कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।  

      आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ १७-९ ॥  

      यातयामं गतरसं पूति पर्युषितं च यत् ।  

      उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ १७-१० ॥  

      अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।  

      यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ १७-११ ॥  

      अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ।  

      इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ १७-१२ ॥  

      विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।  

      श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ १७-१३ ॥  

      देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।  

      ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ १७-१४ ॥  

      अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।  

      स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ १७-१५ ॥  

      मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।  

      भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ १७-१६ ॥  

      श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः ।  

      अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥ १७-१७ ॥  

      सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।  

      क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥ १७-१८ ॥  

      मूढग्राहेणात्मनो यत्पीडया क्रियते तपः ।  

      परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥ १७-१९ ॥  

      दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।  

      देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥ १७-२० ॥  

      यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।  

      दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥ १७-२१ ॥  

      अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।  

      असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ १७-२२ ॥  

      ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।  

      ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ १७-२३ ॥  

      तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ।  

      प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥ १७-२४ ॥  

      तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः ।  

      दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥ १७-२५ ॥  

      सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।  

      प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥ १७-२६ ॥  

      यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।  

      कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ १७-२७ ॥  

      अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।  

      असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ १७-२८ ॥  

      ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे  

      श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ॥ १७ ॥

      Parimal Digital
      Vishal Shri Geeta Bhawan
      Sector 52, Chandigarh
      160036
      Chandigarh, India
      Working Hours
      Monday-Friday
      10am-6pm
      Click to Follow
      Contact Us
      [email protected]+91-8146148002+91-9877426467
      Copyright © 2024. All Rights Reserved.
      Designed By: Keshav Mahajan