Parimal Digital
GetStarted
Login
  • Login
    Enable Location Services
    • Website
    • परिमल
    • परिमल स्तोत्र
    • श्रीमदभगवद्गीता
    • पूजनीय गुरुजन
    • Others

    Others

      Parimal Digital
      Parimal Digital
      Login
      • Login
      • Website
      • परिमल
      • परिमल स्तोत्र
      • श्रीमदभगवद्गीता
      • पूजनीय गुरुजन
      • Others
      GetStarted
      अथ षोडशोऽध्यायः

      अथ षोडशोऽध्यायः

      1. Home
      2. श्रीमदभगवद्गीता
      3. संस्कृत गीता
      4. अथ षोडशोऽध्यायः

      अथ षोडशोऽध्यायः

      **श्रीभगवानुवाच:**  

      अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।  

      दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १६-१ ॥  

      अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।  

      दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ १६-२ ॥  

      तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।  

      भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ १६-३ ॥  

      दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ।  

      अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ १६-४ ॥  

      दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ।  

      मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥ १६-५ ॥  

      द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च ।  

      दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे श‍ृणु ॥ १६-६ ॥  

      प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।  

      न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ १६-७ ॥  

      असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।  

      अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥ १६-८ ॥  

      एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।  

      प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ १६-९ ॥  

      काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।  

      मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥ १६-१० ॥  

      चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ।  

      कामोपभोगपरमा एतावदिति निश्चिताः ॥ १६-११ ॥  

      आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।  

      ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ १६-१२ ॥  

      इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ।  

      इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ १६-१३ ॥  

      असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।  

      ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ १६-१४ ॥  

      आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।  

      यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ १६-१५ ॥  

      अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।  

      प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥ १६-१६ ॥  

      आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः ।  

      यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ १६-१७ ॥  

      अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः ।  

      मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ १६-१८ ॥  

      तानहं द्विषतः क्रूरान्संसारेषु नराधमान् ।  

      क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ १६-१९ ॥  

      आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।  

      मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ १६-२० ॥  

      त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।  

      कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ १६-२१ ॥  

      एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः ।  

      आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥ १६-२२ ॥  

      यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।  

      न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ १६-२३ ॥  

      तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।  

      ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ १६-२४ ॥  

      ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे  

      श्रीकृष्णार्जुनसंवादे दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः ॥ १६ ॥

      Parimal Digital
      Vishal Shri Geeta Bhawan
      Sector 52, Chandigarh
      160036
      Chandigarh, India
      Working Hours
      Monday-Friday
      10am-6pm
      Click to Follow
      Contact Us
      [email protected]+91-8146148002+91-9877426467
      Copyright © 2024. All Rights Reserved.
      Designed By: Keshav Mahajan