Parimal Digital
GetStarted
Login
  • Login
    Enable Location Services
    • Website
    • परिमल
    • परिमल स्तोत्र
    • श्रीमदभगवद्गीता
    • पूजनीय गुरुजन
    • Others

    Others

      Parimal Digital
      Parimal Digital
      Login
      • Login
      • Website
      • परिमल
      • परिमल स्तोत्र
      • श्रीमदभगवद्गीता
      • पूजनीय गुरुजन
      • Others
      GetStarted
      अथ पञ्चदशोऽध्यायः

      अथ पञ्चदशोऽध्यायः

      1. Home
      2. श्रीमदभगवद्गीता
      3. संस्कृत गीता
      4. अथ पञ्चदशोऽध्यायः

      अथ पञ्चदशोऽध्यायः

      **श्रीभगवानुवाच:**  

      ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।  

      छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १५-१ ॥  

      अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः ।  

      अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥ १५-२ ॥  

      न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा ।  

      अश्वत्थमेनं सुविरूढमूलं असङ्गशस्त्रेण दृढेन छित्त्वा ॥ १५-३ ॥  

      ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः ।  

      तमेव चाद्यं पुरुषं प्रपद्ये । यतः प्रवृत्तिः प्रसृता पुराणी ॥ १५-४ ॥  

      निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः ।  

      द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् ॥ १५-५ ॥  

      न तद्भासयते सूर्यो न शशाङ्को न पावकः ।  

      यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ १५-६ ॥  

      ममैवांशो जीवलोके जीवभूतः सनातनः ।  

      मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ १५-७ ॥  

      शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।  

      गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ १५-८ ॥  

      श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।  

      अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ १५-९ ॥  

      उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।  

      विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ १५-१० ॥  

      यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।  

      यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ १५-११ ॥  

      यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।  

      यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ १५-१२ ॥  

      गामाविश्य च भूतानि धारयाम्यहमोजसा ।  

      पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥ १५-१३ ॥  

      अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।  

      प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ १५-१४ ॥  

      सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनञ्च ।  

      वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥ १५-१५ ॥  

      द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।  

      क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १५-१६ ॥  

      उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।  

      यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ १५-१७ ॥  

      यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।  

      अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ १५-१८ ॥  

      यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।  

      स सर्वविद्भजति मां सर्वभावेन भारत ॥ १५-१९ ॥  

      इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।  

      एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ १५-२० ॥  

      ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे  

      श्रीकृष्णार्जुन संवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ॥ १५ ॥

      Parimal Digital
      Vishal Shri Geeta Bhawan
      Sector 52, Chandigarh
      160036
      Chandigarh, India
      Working Hours
      Monday-Friday
      10am-6pm
      Click to Follow
      Contact Us
      [email protected]+91-8146148002+91-9877426467
      Copyright © 2024. All Rights Reserved.
      Designed By: Keshav Mahajan