Parimal Digital
GetStarted
Login
  • Login
    Enable Location Services
    • Website
    • परिमल
    • परिमल स्तोत्र
    • श्रीमदभगवद्गीता
    • पूजनीय गुरुजन
    • Others

    Others

      Parimal Digital
      Parimal Digital
      Login
      • Login
      • Website
      • परिमल
      • परिमल स्तोत्र
      • श्रीमदभगवद्गीता
      • पूजनीय गुरुजन
      • Others
      GetStarted
      अथ त्रयोदशोऽध्यायः

      अथ त्रयोदशोऽध्यायः

      1. Home
      2. श्रीमदभगवद्गीता
      3. संस्कृत गीता
      4. अथ त्रयोदशोऽध्यायः

      अथ त्रयोदशोऽध्यायः

      **अर्जुन उवाच:**  

      प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च ।  

      एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ॥ १३-१ ॥  

      **श्रीभगवानुवाच:**  

      इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।  

      एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ १३-२ ॥  

      क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।  

      क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ १३-३ ॥  

      तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ।  

      स च यो यत्प्रभावश्च तत्समासेन मे श‍ृणु ॥ १३-४ ॥  

      ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ।  

      ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ १३-५ ॥  

      महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ।  

      इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ १३-६ ॥  

      इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ।  

      एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ १३-७ ॥  

      अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।  

      आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ १३-८ ॥  

      इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।  

      जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ १३-९ ॥  

      असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।  

      नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ १३-१० ॥  

      मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।  

      विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ १३-११ ॥  

      अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।  

      एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ १३-१२ ॥  

      ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ।  

      अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ १३-१३ ॥  

      सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।  

      सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १३-१४ ॥  

      सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।  

      असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ १३-१५ ॥  

      बहिरन्तश्च भूतानामचरं चरमेव च ।  

      सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ १३-१६ ॥  

      अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।  

      भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ १३-१७ ॥  

      ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।  

      ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ १३-१८ ॥  

      इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।  

      मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ १३-१९ ॥  

      प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।  

      विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥ १३-२० ॥  

      कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।  

      पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ १३-२१ ॥  

      पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् ।  

      कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ १३-२२ ॥  

      उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।  

      परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥ १३-२३ ॥  

      य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।  

      सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ १३-२४ ॥  

      ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।  

      अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ १३-२५ ॥  

      अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।  

      तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ १३-२६ ॥  

      यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ।  

      क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ १३-२७ ॥  

      समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।  

      विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ १३-२८ ॥  

      समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् ।  

      न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥ १३-२९ ॥  

      प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।  

      यः पश्यति तथात्मानमकर्तारं स पश्यति ॥ १३-३० ॥  

      यदा भूतपृथग्भावमेकस्थमनुपश्यति ।  

      तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ १३-३१ ॥  

      अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः ।  

      शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ १३-३२ ॥  

      यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।  

      सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ १३-३३ ॥  

      यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।  

      क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ १३-३४ ॥  

      क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।  

      भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ १३-३५ ॥  

      ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे  

      श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः ॥ १३ ॥

      Parimal Digital
      Vishal Shri Geeta Bhawan
      Sector 52, Chandigarh
      160036
      Chandigarh, India
      Working Hours
      Monday-Friday
      10am-6pm
      Click to Follow
      Contact Us
      [email protected]+91-8146148002+91-9877426467
      Copyright © 2024. All Rights Reserved.
      Designed By: Keshav Mahajan