Parimal Digital
GetStarted
Login
  • Login
    Enable Location Services
    • Website
    • परिमल
    • परिमल स्तोत्र
    • श्रीमदभगवद्गीता
    • पूजनीय गुरुजन
    • Others

    Others

      Parimal Digital
      Parimal Digital
      Login
      • Login
      • Website
      • परिमल
      • परिमल स्तोत्र
      • श्रीमदभगवद्गीता
      • पूजनीय गुरुजन
      • Others
      GetStarted
      अथ द्वादशोऽध्यायः

      अथ द्वादशोऽध्यायः

      1. Home
      2. श्रीमदभगवद्गीता
      3. संस्कृत गीता
      4. अथ द्वादशोऽध्यायः

      अथ द्वादशोऽध्यायः

      **अर्जुन उवाच:**  

      एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।  

      ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ १२-१ ॥  

      **श्रीभगवानुवाच:**  

      मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।  

      श्रद्धया परयोपेताः ते मे युक्ततमा मताः ॥ १२-२ ॥  

      ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।  

      सर्वत्रगमचिन्त्यञ्च कूटस्थमचलन्ध्रुवम् ॥ १२-३ ॥  

      सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।  

      ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ १२-४ ॥  

      क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।  

      अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ १२-५ ॥  

      ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।  

      अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ १२-६ ॥  

      तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।  

      भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ॥ १२-७ ॥  

      मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।  

      निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥ १२-८ ॥  

      अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।  

      अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥ १२-९ ॥  

      अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ।  

      मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥ १२-१० ॥  

      अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः ।  

      सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ १२-११ ॥  

      श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते ।  

      ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ १२-१२ ॥  

      अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।  

      निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ १२-१३ ॥  

      सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः ।  

      मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥ १२-१४ ॥  

      यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।  

      हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ १२-१५ ॥  

      अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।  

      सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ १२-१६ ॥  

      यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।  

      शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥ १२-१७ ॥  

      समः शत्रौ च मित्रे च तथा मानापमानयोः ।  

      शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ १२-१८ ॥  

      तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् ।  

      अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ १२-१९ ॥  

      ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते ।  

      श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ १२-२० ॥  

      ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे  

      श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम द्वादशोऽध्यायः ॥ १२ ॥

      Parimal Digital
      Vishal Shri Geeta Bhawan
      Sector 52, Chandigarh
      160036
      Chandigarh, India
      Working Hours
      Monday-Friday
      10am-6pm
      Click to Follow
      Contact Us
      [email protected]+91-8146148002+91-9877426467
      Copyright © 2024. All Rights Reserved.
      Designed By: Keshav Mahajan