Parimal Digital
GetStarted
Login
  • Login
    Enable Location Services
    • Website
    • परिमल
    • परिमल स्तोत्र
    • श्रीमदभगवद्गीता
    • पूजनीय गुरुजन
    • Others

    Others

      Parimal Digital
      Parimal Digital
      Login
      • Login
      • Website
      • परिमल
      • परिमल स्तोत्र
      • श्रीमदभगवद्गीता
      • पूजनीय गुरुजन
      • Others
      GetStarted
      अथ दशमोऽध्यायः

      अथ दशमोऽध्यायः

      1. Home
      2. श्रीमदभगवद्गीता
      3. संस्कृत गीता
      4. अथ दशमोऽध्यायः

      अथ दशमोऽध्यायः

      श्रीभगवानुवाच:**  

      भूय एव महाबाहो श‍ृणु मे परमं वचः ।  

      यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १०-१ ॥  

      न मे विदुः सुरगणाः प्रभवं न महर्षयः ।  

      अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥ १०-२ ॥  

      यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।  

      असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ १०-३ ॥  

      बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः ।  

      सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥ १०-४ ॥  

      अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ।  

      भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ १०-५ ॥  

      महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।  

      मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ १०-६ ॥  

      एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।  

      सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ १०-७ ॥  

      अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।  

      इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ १०-८ ॥  

      मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।  

      कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ १०-९ ॥  

      तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।  

      ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १०-१० ॥  

      तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।  

      नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ १०-११ ॥  

      **अर्जुन उवाच:**  

      परं ब्रह्म परं धाम पवित्रं परमं भवान् ।  

      पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १०-१२ ॥  

      आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।  

      असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ १०-१३ ॥  

      सर्वमेतदृतं मन्ये यन्मां वदसि केशव ।  

      न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥ १०-१४ ॥  

      स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।  

      भूतभावन भूतेश देवदेव जगत्पते ॥ १०-१५ ॥  

      वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।  

      याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १०-१६ ॥  

      कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।  

      केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १०-१७ ॥  

      विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।  

      भूयः कथय तृप्तिर्हि श‍ृण्वतो नास्ति मेऽमृतम् ॥ १०-१८ ॥  

      **श्रीभगवानुवाच:**  

      हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।  

      प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ १०-१९ ॥  

      अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।  

      अहमादिश्च मध्यं च भूतानामन्त एव च ॥ १०-२० ॥  

      आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् ।  

      मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ १०-२१ ॥  

      वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।  

      इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ १०-२२ ॥  

      रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् ।  

      वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ १०-२३ ॥  

      पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।  

      सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥ १०-२४ ॥  

      महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।  

      यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ १०-२५ ॥  

      अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।  

      गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ १०-२६ ॥  

      उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ।  

      ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ १०-२७ ॥  

      आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।  

      प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥ १०-२८ ॥  

      अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।  

      पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥ १०-२९ ॥  

      प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।  

      मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ १०-३० ॥  

      पवनः पवतामस्मि रामः शस्त्रभृतामहम् ।  

      झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥ १०-३१ ॥  

      सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।  

      अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ १०-३२ ॥  

      अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च ।  

      अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥ १०-३३ ॥  

      मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् ।  

      कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ १०-३४ ॥  

      बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ।  

      मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥ १०-३५ ॥  

      द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ।  

      जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ १०-३६ ॥  

      वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः ।  

      मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ १०-३७ ॥  

      दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।  

      मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ १०-३८ ॥  

      यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।  

      न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ १०-३९ ॥  

      नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।  

      एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥ १०-४० ॥  

      यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।  

      तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ॥ १०-४१ ॥  

      अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।  

      विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ १०-४२ ॥  

      ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगो नाम दशमोऽध्यायः ॥ १०॥

      Parimal Digital
      Vishal Shri Geeta Bhawan
      Sector 52, Chandigarh
      160036
      Chandigarh, India
      Working Hours
      Monday-Friday
      10am-6pm
      Click to Follow
      Contact Us
      [email protected]+91-8146148002+91-9877426467
      Copyright © 2024. All Rights Reserved.
      Designed By: Keshav Mahajan