Parimal Digital
GetStarted
Login
  • Login
    Enable Location Services
    • Website
    • परिमल
    • परिमल स्तोत्र
    • श्रीमदभगवद्गीता
    • पूजनीय गुरुजन
    • Others

    Others

      Parimal Digital
      Parimal Digital
      Login
      • Login
      • Website
      • परिमल
      • परिमल स्तोत्र
      • श्रीमदभगवद्गीता
      • पूजनीय गुरुजन
      • Others
      GetStarted
      अथ नवमोऽध्यायः

      अथ नवमोऽध्यायः

      1. Home
      2. श्रीमदभगवद्गीता
      3. संस्कृत गीता
      4. अथ नवमोऽध्यायः

      अथ नवमोऽध्यायः

      श्रीभगवानुवाच: 

      इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।  

      ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥९-१॥  

      राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।  

      प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ ९-२ ॥  

      अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।  

      अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ९-३ ॥  

      मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।  

      मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ ९-४ ॥  

      न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।  

      भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ ९-५ ॥  

      यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।  

      तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ९-६ ॥  

      सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।  

      कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ९-७ ॥  

      प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।  

      भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ९-८ ॥  

      न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ।  

      उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९-९ ॥  

      मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।  

      हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ ९-१० ॥  

      अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।  

      परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ९-११ ॥  

      मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।  

      राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ ९-१२ ॥  

      महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।  

      भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ ९-१३ ॥  

      सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।  

      नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ ९-१४ ॥  

      ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।  

      एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ ९-१५ ॥  

      अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् ।  

      मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ ९-१६ ॥  

      पिताहमस्य जगतो माता धाता पितामहः ।  

      वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च ॥ ९-१७ ॥  

      गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।  

      प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥ ९-१८ ॥  

      तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।  

      अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ ९-१९ ॥  

      त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।  

      ते पुण्यमासाद्य सुरेन्द्रलोक- मश्नन्ति दिव्यान्दिवि देवभोगान् ॥ ९-२० ॥  

      ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।  

      एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥ ९-२१ ॥  

      अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।  

      तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ९-२२ ॥  

      येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः ।  

      तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ ९-२३ ॥  

      अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।  

      न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ ९-२४ ॥  

      यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः ।  

      भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ ९-२५ ॥  

      पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।  

      तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ ९-२६ ॥  

      यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।  

      यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ ९-२७ ॥  

      शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।  

      संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ ९-२८ ॥  

      समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।  

      ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ ९-२९ ॥  

      अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।  

      साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ ९-३० ॥  

      क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।  

      कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ ९-३१ ॥  

      मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।  

      स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ ९-३२ ॥  

      किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।  

      अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ ९-३३ ॥  

      मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।  

      मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ ९-३४ ॥  

      ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे  

      श्रीकृष्णार्जुनसंवादे राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ॥ ९ ॥

      Parimal Digital
      Vishal Shri Geeta Bhawan
      Sector 52, Chandigarh
      160036
      Chandigarh, India
      Working Hours
      Monday-Friday
      10am-6pm
      Click to Follow
      Contact Us
      [email protected]+91-8146148002+91-9877426467
      Copyright © 2024. All Rights Reserved.
      Designed By: Keshav Mahajan