Parimal Digital
GetStarted
Login
  • Login
    Enable Location Services
    • Website
    • परिमल
    • परिमल स्तोत्र
    • श्रीमदभगवद्गीता
    • पूजनीय गुरुजन
    • Others

    Others

      Parimal Digital
      Parimal Digital
      Login
      • Login
      • Website
      • परिमल
      • परिमल स्तोत्र
      • श्रीमदभगवद्गीता
      • पूजनीय गुरुजन
      • Others
      GetStarted
      अथ अष्टमोऽध्यायः

      अथ अष्टमोऽध्यायः

      1. Home
      2. श्रीमदभगवद्गीता
      3. संस्कृत गीता
      4. अथ अष्टमोऽध्यायः

      अथ अष्टमोऽध्यायः


      अर्जुन उवाच:
      किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।  
      अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ ८-१ ॥  
      अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन ।  
      प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥ ८-२ ॥  
      श्रीभगवानुवाच:
      अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।  
      भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ ८-३ ॥  
      अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।  
      अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ८-४ ॥  
      अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ।  
      यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ ८-५ ॥  
      यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।  
      तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ ८-६ ॥  
      तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।  
      मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ॥ ८-७ ॥  
      (संशयम्)
      अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।  
      परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ ८-८ ॥  
      कविं पुराणमनुशासितारमणोरणीयंसमनुस्मरेद्यः ।  
      सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ॥ ८-९ ॥  
      प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव ।  
      भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् ॥ ८-१० ॥  
      यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः ।  
      यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ ८-११ ॥  
      सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।  
      मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥ ८-१२ ॥  
      ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।  
      यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ ८-१३ ॥  
      अनन्यचेताः सततं यो मां स्मरति नित्यशः ।  
      तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ ८-१४ ॥  
      मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।  
      नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ ८-१५ ॥  
      आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।  
      मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ ८-१६ ॥  
      सहस्रयुगपर्यन्तमहर्यद् ब्रह्मणो विदुः ।  
      रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ ८-१७ ॥  
      अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।  
      रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ ८-१८ ॥  
      भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।  
      रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ ८-१९ ॥  
      परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः ।  
      यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ ८-२० ॥
      अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ।  
      यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ ८-२१ ॥  
      पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।  
      यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥ ८-२२ ॥  
      यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।  
      प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ ८-२३ ॥  
      अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।  
      तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ ८-२४ ॥  
      धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।  
      तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ ८-२५ ॥  
      शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।  
      एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥ ८-२६ ॥  
      नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।  
      तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ ८-२७ ॥  
      वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् ।  
      अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥ ८-२८ ॥  
      ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे  
      श्रीकृष्णार्जुनसंवादे अक्षरब्रह्मयोगो नामाष्टमोऽध्यायः ॥ ८ ॥

      Parimal Digital
      Vishal Shri Geeta Bhawan
      Sector 52, Chandigarh
      160036
      Chandigarh, India
      Working Hours
      Monday-Friday
      10am-6pm
      Click to Follow
      Contact Us
      [email protected]+91-8146148002+91-9877426467
      Copyright © 2024. All Rights Reserved.
      Designed By: Keshav Mahajan