Parimal Digital
GetStarted
Login
  • Login
    Enable Location Services
    • Website
    • परिमल
    • परिमल स्तोत्र
    • श्रीमदभगवद्गीता
    • पूजनीय गुरुजन
    • Others

    Others

      Parimal Digital
      Parimal Digital
      Login
      • Login
      • Website
      • परिमल
      • परिमल स्तोत्र
      • श्रीमदभगवद्गीता
      • पूजनीय गुरुजन
      • Others
      GetStarted
      अथ पञ्चमोऽध्यायः

      अथ पञ्चमोऽध्यायः

      1. Home
      2. श्रीमदभगवद्गीता
      3. संस्कृत गीता
      4. अथ पञ्चमोऽध्यायः

      अथ पञ्चमोऽध्यायः

      अर्जुन उवाच:

      संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।  

      यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ ५-१ ॥  श्रीभगवानुवाच

      संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।  

      तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥ ५-२ ॥  

      ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ।  

      निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ ५-३ ॥  

      साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।  

      एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥ ५-४ ॥  

      यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।  

      एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥ ५-५ ॥  

      संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।  

      योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥ ५-६ ॥  

      योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।  

      सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ ५-७ ॥  

      नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।  

      पश्यञ्श‍ृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥ ५-८ ॥  

      प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ।  

      इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ ५-९ ॥  

      ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।  

      लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ ५-१० ॥  

      कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।  

      योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥ ५-११ ॥  

      युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।  

      अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ ५-१२ ॥  

      सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ।  

      नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ ५-१३ ॥  

      न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।  

      न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ ५-१४ ॥  

      नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।  

      अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ ५-१५ ॥  

      ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।  

      तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ ५-१६ ॥  

      तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।  

      गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ ५-१७ ॥  

      विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।  

      शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ ५-१८ ॥  

      इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।  

      निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ ५-१९ ॥  

      न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् ।  

      स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥ ५-२० ॥  

      बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् ।  

      स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥ ५-२१ ॥  

      ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।  

      आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ ५-२२ ॥  

      शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् ।  

      कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ ५-२३ ॥  

      योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः ।  

      स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ ५-२४ ॥  

      लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।  

      छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ ५-२५ ॥  

      कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।  

      अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ ५-२६ ॥  

      स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।  

      प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ ५-२७ ॥  

      यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।  

      विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ ५-२८ ॥  

      भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।  

      सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ ५-२९ ॥  

      ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे  

      श्रीकृष्णार्जुनसंवादे संन्यासयोगो नाम पञ्चमोऽध्यायः ॥ ५ ॥

      Parimal Digital
      Vishal Shri Geeta Bhawan
      Sector 52, Chandigarh
      160036
      Chandigarh, India
      Working Hours
      Monday-Friday
      10am-6pm
      Click to Follow
      Contact Us
      [email protected]+91-8146148002+91-9877426467
      Copyright © 2024. All Rights Reserved.
      Designed By: Keshav Mahajan