Parimal Digital
GetStarted
Login
  • Login
    Enable Location Services
    • Website
    • परिमल
    • परिमल स्तोत्र
    • श्रीमदभगवद्गीता
    • पूजनीय गुरुजन
    • Others

    Others

      Parimal Digital
      Parimal Digital
      Login
      • Login
      • Website
      • परिमल
      • परिमल स्तोत्र
      • श्रीमदभगवद्गीता
      • पूजनीय गुरुजन
      • Others
      GetStarted
      अथ चतुर्थोऽध्यायः

      अथ चतुर्थोऽध्यायः

      1. Home
      2. श्रीमदभगवद्गीता
      3. संस्कृत गीता
      4. अथ चतुर्थोऽध्यायः

      अथ चतुर्थोऽध्यायः

      श्रीभगवानुवाच:  

      इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।  

      विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥ ४-१ ॥  

      एवं परम्पराप्राप्तमिमं राजर्षयो विदुः ।  

      स कालेनेह महता योगो नष्टः परन्तप ॥ ४-२ ॥  

      स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।  

      भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ४-३ ॥  

      **अर्जुन उवाच:**  

      अपरं भवतो जन्म परं जन्म विवस्वतः ।  

      कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ ४-४ ॥  

      **श्रीभगवानुवाच:**  

      बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।  

      तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ ४-५ ॥  

      अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।  

      प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥ ४-६ ॥  

      यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।  

      अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ ४-७ ॥  

      परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।  

      धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ४-८ ॥  

      जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।  

      त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ ४-९ ॥  

      वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।  

      बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ ४-१० ॥  

      ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।  

      मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ४-११ ॥  

      काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।  

      क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ ४-१२ ॥  

      चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ।  

      तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥ ४-१३ ॥  

      न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।  

      इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ ४-१४ ॥  

      एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।  

      कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ ४-१५ ॥  

      किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।  

      तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ ४-१६ ॥  

      कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।  

      अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ ४-१७ ॥  

      कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।  

      स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ ४-१८ ॥  

      यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ।  

      ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ ४-१९ ॥  

      त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।  

      कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥ ४-२० ॥  

      निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।  

      शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ ४-२१ ॥  

      यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः ।  

      समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ ४-२२ ॥  

      गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।  

      यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ ४-२३ ॥  

      ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।  

      ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ ४-२४ ॥  

      दैवमेवापरे यज्ञं योगिनः पर्युपासते ।  

      ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ ४-२५ ॥  

      श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।  

      शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥ ४-२६ ॥  

      सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।  

      आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ ४-२७ ॥  

      द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।  

      स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ ४-२८ ॥  

      अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे ।  

      प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ ४-२९ ॥  

      अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ।  

      सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥ ४-३० ॥  

      यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।  

      नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥ ४-३१ ॥  

      एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।  

      कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥ ४-३२ ॥  

      श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ।  

      सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ४-३३ ॥  

      तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।  

      उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ४-३४ ॥  

      यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।  

      येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ ४-३५ ॥  

      अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।  

      सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ ४-३६ ॥  

      यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।  

      ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ४-३७ ॥  

      न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।  

      तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ४-३८ ॥  

      श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः ।  

      ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ४-३९ ॥  

      अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।  

      नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ४-४० ॥  

      योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् ।  

      आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ ४-४१ ॥  

      तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः ।  

      छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ४-४२ ॥  

      ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः ॥ ४॥

      Parimal Digital
      Vishal Shri Geeta Bhawan
      Sector 52, Chandigarh
      160036
      Chandigarh, India
      Working Hours
      Monday-Friday
      10am-6pm
      Click to Follow
      Contact Us
      [email protected]+91-8146148002+91-9877426467
      Copyright © 2024. All Rights Reserved.
      Designed By: Keshav Mahajan