Parimal Digital
GetStarted
Login
  • Login
    Enable Location Services
    • Website
    • परिमल
    • परिमल स्तोत्र
    • श्रीमदभगवद्गीता
    • पूजनीय गुरुजन
    • Others

    Others

      Parimal Digital
      Parimal Digital
      Login
      • Login
      • Website
      • परिमल
      • परिमल स्तोत्र
      • श्रीमदभगवद्गीता
      • पूजनीय गुरुजन
      • Others
      GetStarted
      अथ तृतीयोऽध्यायः

      अथ तृतीयोऽध्यायः

      1. Home
      2. श्रीमदभगवद्गीता
      3. संस्कृत गीता
      4. अथ तृतीयोऽध्यायः

      अथ तृतीयोऽध्यायः

      **अर्जुन उवाच:**  

      ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।  

      तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ ३-१ ॥  

      व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।  

      तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ ३-२ ॥  

      **श्रीभगवानुवाच:**  

      लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।  

      ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥ ३-३ ॥  

      न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।  

      न च संन्यसनादेव सिद्धिं समधिगच्छति ॥ ३-४ ॥  

      न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।  

      कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ३-५ ॥  

      कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।  

      इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥ ३-६ ॥  

      यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।  

      कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ ३-७ ॥  

      नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।  

      शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥ ३-८ ॥  

      यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।  

      तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ ३-९ ॥  

      सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।  

      अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ ३-१० ॥  

      देवान्भावयतानेन ते देवा भावयन्तु वः ।  

      परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ३-११ ॥  

      इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः ।  

      तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ ३-१२ ॥  

      यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।  

      भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥ ३-१३ ॥  

      अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः ।  

      यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ ३-१४ ॥  

      कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।  

      तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ ३-१५ ॥  

      एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।  

      अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ ३-१६ ॥  

      यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।  

      आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥ ३-१७ ॥  

      नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।  

      न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ ३-१८ ॥  

      तस्मादसक्तः सततं कार्यं कर्म समाचर ।  

      असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥ ३-१९ ॥  

      कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।  

      लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥ ३-२० ॥  

      यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।  

      स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ ३-२१ ॥  

      न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।  

      नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ ३-२२ ॥  

      यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।  

      मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ३-२३ ॥  

      उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।  

      सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ ३-२४ ॥  

      सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।  

      कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् ॥ ३-२५ ॥  

      न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।  

      जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ ३-२६ ॥  

      प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।  

      अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥ ३-२७ ॥  

      तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।  

      गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ ३-२८ ॥  

      प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु ।  

      तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥ ३-२९ ॥  

      मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।  

      निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ ३-३० ॥  

      ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।  

      श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ ३-३१ ॥  

      ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।  

      सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥ ३-३२ ॥  

      सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।  

      प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ ३-३३ ॥  

      इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।  

      तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ ३-३४ ॥  

      श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।  

      स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ ३-३५ ॥  

      **अर्जुन उवाच:**  

      अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।  

      अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ ३-३६ ॥  

      **श्रीभगवानुवाच:**  

      काम एष क्रोध एष रजोगुणसमुद्भवः ।  

      महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ ३-३७ ॥  

      धूमेनाव्रियते वह्निर्यथादर्शो मलेन च ।  

      यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥ ३-३८ ॥  

      आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।  

      कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ ३-३९ ॥  

      इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।  

      एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ ३-४० ॥  

      तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।  

      पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥ ३-४१ ॥  

      इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।  

      मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ३-४२ ॥  

      जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ३-४३ ॥

      ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु   ब्रह्मविद्यायां

      योगशास्त्रे श्रीकृष्णार्जुनसंवादे   कर्मयोगो नाम तृतीयोऽध्यायः ॥ ३ ॥

      Parimal Digital
      Vishal Shri Geeta Bhawan
      Sector 52, Chandigarh
      160036
      Chandigarh, India
      Working Hours
      Monday-Friday
      10am-6pm
      Click to Follow
      Contact Us
      [email protected]+91-8146148002+91-9877426467
      Copyright © 2024. All Rights Reserved.
      Designed By: Keshav Mahajan