Parimal Digital
GetStarted
Login
  • Login
    Enable Location Services
    • Website
    • परिमल
    • परिमल स्तोत्र
    • श्रीमदभगवद्गीता
    • पूजनीय गुरुजन
    • Others

    Others

      Parimal Digital
      Parimal Digital
      Login
      • Login
      • Website
      • परिमल
      • परिमल स्तोत्र
      • श्रीमदभगवद्गीता
      • पूजनीय गुरुजन
      • Others
      GetStarted
      अथ द्वितीयोऽध्यायः

      अथ द्वितीयोऽध्यायः

      1. Home
      2. श्रीमदभगवद्गीता
      3. संस्कृत गीता
      4. अथ द्वितीयोऽध्यायः

      अथ द्वितीयोऽध्यायः


      सञ्जय उवाच । तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।  
      विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ २-१ ॥  
      श्रीभगवानुवाच । कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।  
      अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ २-२ ॥  
      क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।  
      क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ २-३ ॥  
      अर्जुन उवाच । कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन ।  
      इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ २-४ ॥  
      गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।  
      हत्वार्थकामांस्तु गुरूनिहैव
      भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥ २-५ ॥  
      न चैतद्विद्मः कतरन्नो गरीयो
      यद्वा जयेम यदि वा नो जयेयुः ।  
      यानेव हत्वा न जिजीविषाम-  
      स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ २-६ ॥  
      कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः ।  
      यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे  
      शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ २-७ ॥  
      न हि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम् ।  
      अवाप्य भूमावसपत्नमृद्धं राज्यं  
      सुराणामपि चाधिपत्यम् ॥ २-८ ॥  
      सञ्जय उवाच । एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप ।  
      न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥ २-९ ॥  
      तमुवाच हृषीकेशः प्रहसन्निव भारत ।  
      सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ २-१० ॥  
      श्रीभगवानुवाच । अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।  
      गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ २-११ ॥  
      न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।  
      न चैव न भविष्यामः सर्वे वयमतः परम् ॥ २-१२ ॥  
      देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।  
      तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ २-१३ ॥  
      मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।  
      आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ २-१४ ॥  
      यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।  
      समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ २-१५ ॥  
      नासतो विद्यते भावो नाभावो विद्यते सतः ।  
      उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ २-१६ ॥  
      अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।  
      विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ २-१७ ॥  
      अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।  
      अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ २-१८ ॥  
      य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।  
      उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ २-१९ ॥  
      न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः ।  
      अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ २-२० ॥  
      वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।  
      कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २-२१ ॥  
      वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि ।  
      तथा शरीराणि विहाय जीर्णा-  
      न्यान्यानि संयाति नवानि देही ॥ २-२२ ॥  
      नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।  
      न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ २-२३ ॥  
      अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।  
      नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २-२४ ॥  
      अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।  
      तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ २-२५ ॥  
      अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।  
      तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥ २-२६ ॥  
      जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।  
      तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ २-२७ ॥  
      अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।  
      अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २-२८ ॥  
      आश्चर्यवत्पश्यति कश्चिदेन-  
      माश्चर्यवद्वदति तथैव चान्यः ।  
      आश्चर्यवच्चैनमन्यः श‍ृणोति  
      श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ २-२९ ॥  
      देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।  
      तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ २-३० ॥  
      स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।  
      धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥ २-३१ ॥  
      यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।  
      सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥ २-३२ ॥  
      अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ।  
      ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥ २-३३ ॥  
      अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।  
      सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ २-३४ ॥  
      भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।  
      येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥ २-३५ ॥  
      अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः ।  
      निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥ २-३६ ॥  
      हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।  
      तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ २-३७ ॥  
      सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।  
      ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ २-३८ ॥  
      एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां श‍ृणु ।  
      बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ २-३९ ॥  
      नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।  
      स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ २-४० ॥  
      व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।  
      बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ २-४१ ॥  
      यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।  
      वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ २-४२ ॥  
      कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ।  
      क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥ २-४३ ॥  
      भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।  
      व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ २-४४ ॥  
      त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।  
      निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥ २-४५ ॥  
      यावानर्थ उदपाने सर्वतः सम्प्लुतोदके ।  
      तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ २-४६ ॥  
      कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।  
      मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ २-४७ ॥  
      योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।  
      सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ २-४८ ॥  
      दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय ।  
      बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ २-४९ ॥  
      बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।  
      तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ २-५० ॥
      कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।  
      जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ २-५१ ॥  
      यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।  
      तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ २-५२ ॥  
      श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।  
      समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ २-५३ ॥
      अर्जुन उवाच ।  
      स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।  
      स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥ २-५४ ॥  
      श्रीभगवानुवाच ।  
      प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ।  
      आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ २-५५ ॥  
      दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।  
      वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ २-५६ ॥  
      यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।  
      नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५७ ॥  
      यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।  
      इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५८ ॥  
      विषया विनिवर्तन्ते निराहारस्य देहिनः ।  
      रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ २-५९ ॥  
      यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।  
      इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ २-६० ॥  
      तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।  
      वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६१ ॥  
      ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ।  
      सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥ २-६२ ॥  
      क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ।  
      स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ २-६३ ॥  
      रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् ।  
      (रागद्वेषवियुक्तैस्तु) आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ २-६४ ॥  
      प्रसादे सर्वदुःखानां हानिरस्योपजायते ।  
      प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ २-६५ ॥  
      नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।  
      न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ २-६६ ॥  
      इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।  
      तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ २-६७ ॥  
      तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।
      इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६८ ॥  
      या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।  
      यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ २-६९ ॥  
      आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् ।  
      तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥ २-७० ॥  
      विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ।  
      निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥ २-७१ ॥  
      एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।  
      स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ २-७२ ॥  ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे  
      श्रीकृष्णार्जुनसंवादे साङ्ख्ययोगो नाम द्वितीयोऽध्यायः ॥ २ ॥
      Parimal Digital
      Vishal Shri Geeta Bhawan
      Sector 52, Chandigarh
      160036
      Chandigarh, India
      Working Hours
      Monday-Friday
      10am-6pm
      Click to Follow
      Contact Us
      [email protected]+91-8146148002+91-9877426467
      Copyright © 2024. All Rights Reserved.
      Designed By: Keshav Mahajan