Parimal Digital
GetStarted
Login
  • Login
    Enable Location Services
    • Website
    • परिमल
    • परिमल स्तोत्र
    • श्रीमदभगवद्गीता
    • पूजनीय गुरुजन
    • Others

    Others

      Parimal Digital
      Parimal Digital
      Login
      • Login
      • Website
      • परिमल
      • परिमल स्तोत्र
      • श्रीमदभगवद्गीता
      • पूजनीय गुरुजन
      • Others
      GetStarted
      अथ प्रथमोऽध्यायः

      अथ प्रथमोऽध्यायः

      1. Home
      2. श्रीमदभगवद्गीता
      3. संस्कृत गीता
      4. अथ प्रथमोऽध्यायः

      अथ प्रथमोऽध्यायः


      धृतराष्ट्र उवाच:  
      धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।  
      मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ १-१ ॥

      सञ्जय उवाच:  

      दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।  

      आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ १-२ ॥

      पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।  

      व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ १-३ ॥

      अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।  

      युयुधानो विराटश्च द्रुपदश्च महारथः ॥ १-४ ॥

      धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।  

      पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ १-५ ॥

      युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।  

      सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ १-६ ॥

      अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।  

      नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥ १-७ ॥

      भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।  

      अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ १-८  

      (सौमदत्तिर्जयद्रथः)

      अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।  

      नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ १-९ ॥

      अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।  

      पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १-१० ॥

      अयनेषु च सर्वेषु यथाभागमवस्थिताः ।  

      भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ १-११ ॥

      तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः ।  

      सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ १-१२ ॥

      ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।  

      सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १-१३ ॥

      ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।  

      माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १-१४ ॥

      पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।  

      पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ १-१५ ॥

      अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।  

      नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १-१६ ॥

      काश्यश्च परमेष्वासः शिखण्डी च महारथः ।  

      धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ १-१७ ॥

      द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।  

      सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥ १-१८ ॥

      स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।  

      नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् ॥ १-१९  

      (तुमुलो व्यनुनादयन्)

      अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।  

      प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥ १-२० ॥

      हृषीकेशं तदा वाक्यमिदमाह महीपते । अर्जुन उवाच:  

      सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ १-२१ ॥

      यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।  

      कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥ १-२२ ॥

      योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।  

      धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ १-२३ ॥

      सञ्जय उवाच:  

      एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।  

      सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ १-२४ ॥

      भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।  

      उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥ १-२५ ॥

      तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् ।  

      आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥ १-२६ ॥

      श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ।  

      तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥ १-२७ ॥

      कृपया परयाविष्टो विषीदन्निदमब्रवीत् । अर्जुन उवाच:  

      दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥ १-२८ ॥

      सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।  

      वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ १-२९ ॥

      गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ।  

      न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ १-३० ॥

      निमित्तानि च पश्यामि विपरीतानि केशव ।  

      न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ १-३१ ॥

      न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।  

      किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ १-३२ ॥

      येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।  

      त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥ १-३३ ॥

      आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।  

      मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥ १-३४ ॥

      एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।  

      अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ १-३५ ॥

      निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।  

      पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥ १-३६ ॥

      तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् ।  

      स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ १-३७ ॥

      यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।  

      कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ १-३८ ॥

      कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।  

      कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ १-३९ ॥

      कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।  

      धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ १-४० ॥

      अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।  

      स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ १-४१ ॥  

      सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।  

      पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥ १-४२ ॥  

      दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।  

      उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ १-४३ ॥  

      उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।  

      नरके नियतं वासो भवतीत्यनुशुश्रुम ॥ १-४४ ॥  

      (नरकेऽनियतं)  

      अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।  

      यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ १-४५ ॥  

      यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।  

      धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ १-४६ ॥  

      सञ्जय उवाच ।  

      एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ।  

      विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ १-४७ ॥  

      ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे  

      श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥ १ ॥

      Parimal Digital
      Vishal Shri Geeta Bhawan
      Sector 52, Chandigarh
      160036
      Chandigarh, India
      Working Hours
      Monday-Friday
      10am-6pm
      Click to Follow
      Contact Us
      [email protected]+91-8146148002+91-9877426467
      Copyright © 2024. All Rights Reserved.
      Designed By: Keshav Mahajan