Parimal Digital
GetStarted
Login
  • Login
    Enable Location Services
    • Website
    • परिमल
    • परिमल स्तोत्र
    • श्रीमदभगवद्गीता
    • पूजनीय गुरुजन
    • Others

    Others

      Parimal Digital
      Parimal Digital
      Login
      • Login
      • Website
      • परिमल
      • परिमल स्तोत्र
      • श्रीमदभगवद्गीता
      • पूजनीय गुरुजन
      • Others
      GetStarted
      उपदेशमंजिरिका स्तोत्रं

      उपदेशमंजिरिका स्तोत्रं

      1. Home
      2. परिमल स्तोत्र
      3. स्तोत्र
      4. उपदेशमंजिरिका स्तोत्रं

      उपदेशमंजिरिका स्तोत्रं

      भज चक्रधरं निजनाथम् । तेन विना त्यज सकलविनोदम् ।

      कथमयि तव संसृतिभयहरणम् ।नहि नहि मोचकमन्यत्करणम् ॥१॥

      ध्रुवपदं

      ॥ प्राप्य सुदुर्लभमानवलोकम् ।मनसि विभावय वयसः स्तोकम् ।

      क्षणिकतरङ्गसमं यच्चपलम् । जीवनमेतत्कुरु नर सफलम् ॥२॥

      आयुर्वर्षशतं तव देहिन् ।गमयसि विफलं गच्छसि मोहम् ।

      गतमिह बाल्यं क्रीडासक्त्या । गमयसि यौवनमबलासक्त्या ॥३॥

      अथ वृद्धत्वमवाप्तो देहिन् । किमिव करिष्यसि शिथिले देहे ।

      जरया जीर्णा गात्रजशक्तिः । श्रुतिदृग्जा क्वच भगवद्भक्तिः ||४||

      ते त्यक्ष्यन्त्यथ मृतकशरीरम् । येषु सुरसे स्वैरं स्वैरम् ।

      मूढः स्वजनविनोदाभ्यासी ।मोघं विभवैस्तान् पुष्णासि ॥ ५ ॥

      यो देवो देवासुरशरणम् । मोहं त्यज कुरु तस्य स्मरणम् ।

      तेन विना जीवनमपि मरणम् । नहि तैरन्यैः करणैस्तरणम् ॥६॥

      इन्द्रियग्रामे शिथिलेदेहे । कोऽपि न पृच्छति त्वां ते गेहे ।

      यावत्तेऽस्ति शरीरे शक्तिः । तावत् कार्या भगवद्भक्तिः ||७||

      न पतेद्यावन्नश्वरकायः ।तावत् क्रियतां मोक्षोपायः ।

      यावल्लभसे चिन्तितवित्तम् ।तावद् भज भज चक्रधरं तम् ॥८॥

      प्रतिदिवसं ते नश्यत्यायुः ।तं भज यावद्देहे वायुः ।

      क्षणिकः प्राणाः नश्वरमात्रा । ( क्षणिकप्राणाः )जपनीयास्ते मोक्ष सुमन्त्राः ||९||

      तोयतरङ्गसमं ते चित्तम् ।जीवनयौवनरूपं वित्तम् ।

      नानायोनिषु जननं मरणम् ।प्राप्य विचिन्तसि किं भवतरणम् ॥१०॥

      तीर्थैः क्षेत्रैः व्रतजपदानैः ।नहि ते मोक्षो यत्नैरन्यैः ॥

      यदि तव कल्पं काशीवासः ।तदपि न नश्येत्तव भवपाशः ॥। ११॥

      प्राणायामैः शमदमनियमैः । मुक्तो न भवसि लौकिकधर्मैः ।

      भव वा जटिलः कूर्ची लिंगी । तदपि न मोक्षस्तव नर भावी ॥१२॥

      याजनयजनप्रतिग्रहदानैः ।अध्ययनाऽध्यापनसुविधानैः ।

      वैदिकतान्त्रिकमन्त्रविधानैः ।नहि ते मुक्तिर्भोगप्रधानैः ॥१३॥

      केचित्तपसा मुक्तौ लग्नाः । रमणीवर्णनध्यानैर्भग्नाः ।

      ये मनुजा बहुमार्गासक्ताः ।जायन्ते नहि ते भुवि मुक्ताः ||१४||

      पुनरपि स्वर्गः पुनरपि नरकः । पुनरपि मनुजः पुनरपि मोक्षः ।

      एवं कर्मचतुर्विधमुक्तिः । प्राप्याऽनुसर परं भयमुक्तः ||१५||

      पठ मीमांसातर्कपुराणम् ।

      वेदांगानि तथागमभाणम् ।

      एतत्साध्यमनित्यं तत्वम् ।

      नित्यं श्रीगीतां सुपठ त्वम् ॥१६॥

      कार्यं कर्म समाचर नित्यम् ।

      उपदिष्टं यद् गीतातत्त्वम् ॥

      स्मर भज कृष्णमनन्यं नित्यम् ।

      नेतः परमिह किञ्चित् कृत्यम् ॥१७॥

      इत्थं श्रीशिवकृतोपदेशम् ।

      धृत्वा निजहृदि श्रीचक्रेशम् ।

      ध्यायेत् सततमनन्यो युक्तः ।

      सद्यो मुक्तिमुपैति स भक्तः ।।१८।।

      इति श्रीपरधर्मे महामोक्षेकसाधने श्रीनागार्जुनोपदेशे पारमाण्डल्याम्नाये दीक्षित पण्डित श्रीशिवदेवमुनि महानुभाव विरचित् उपदेशमंजरिकास्तोत्रम्

      Parimal Digital
      Vishal Shri Geeta Bhawan
      Sector 52, Chandigarh
      160036
      Chandigarh, India
      Working Hours
      Monday-Friday
      10am-6pm
      Click to Follow
      Contact Us
      [email protected]+91-8146148002+91-9877426467
      Copyright © 2024. All Rights Reserved.
      Designed By: Keshav Mahajan